वांछित मन्त्र चुनें
देवता: इन्द्र: ऋषि: नृमेधः छन्द: पङ्क्तिः स्वर: पञ्चमः

अन॑र्शरातिं वसु॒दामुप॑ स्तुहि भ॒द्रा इन्द्र॑स्य रा॒तय॑: । सो अ॑स्य॒ कामं॑ विध॒तो न रो॑षति॒ मनो॑ दा॒नाय॑ चो॒दय॑न् ॥

अंग्रेज़ी लिप्यंतरण

anarśarātiṁ vasudām upa stuhi bhadrā indrasya rātayaḥ | so asya kāmaṁ vidhato na roṣati mano dānāya codayan ||

पद पाठ

अन॑र्शऽरातिम् । व॒सु॒ऽदाम् । उप॑ । स्तु॒हि॒ । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ । सः । अ॒स्य॒ । काम॑म् । वि॒ध॒तः । न । रो॒ष॒ति॒ । मनः॑ । दा॒नाय॑ । चो॒दय॑न् ॥ ८.९९.४

ऋग्वेद » मण्डल:8» सूक्त:99» मन्त्र:4 | अष्टक:6» अध्याय:7» वर्ग:3» मन्त्र:4 | मण्डल:8» अनुवाक:10» मन्त्र:4